विगतवर्षदशकस्य संस्कृतनाटकानि (1990-1999)

विगतवर्षदशके विरचितानां नाटकानां संख्या तु भूयस्येव। वर्तमानगवेषिकया विगतवर्षदशके विरचितानि रूपकाणि त्रिसप्ततिसंख्यकानि संगृहीतानि, बहूनि पठितानि च। तेषां सर्वेषां केवलम् नामोल्लेखनमपि पत्रेऽस्मिन् न सम्भवेत् स्थानाभावात् कालाभावाच्च। तेषु केषाञ्चिद् दिग्दर्शनमत्र कृतम्।

आलोच्यनाटकानि तावत् मुख्यतः धाराद्वयमाश्रित्य वर्तन्ते।

  1. पणप्रथाकुष्ठजातिभेदबाल्यविवाहादिकं समकालिकसामाजिकसमस्याजातमाश्रित्य विरचितं नवं वृत्तम्।
  2. पुरातनम् रामायणाद्याश्रितम् स्वल्पज्ञातं बहुज्ञातं वा इतिवृत्तं नवीनदृष्ट्या नूतनाङ्गिकेन वा उपस्थापितम्। नाटकेषु कुत्रचित् गभीरः स्वरः ध्वनितः, कुत्रचित् व्यङ्गात्मको हास्यरसः (satire) परिवेषितः, क्वचिन्नाट्यकृतः आशा प्रतिफलिता, क्वचिन्निराशा हताशा वा।

पूर्वम् संक्षेपिकायाम् पञ्चदशरूपकाणि आलोचयितव्यानि इति उक्तमासीत्। तत्तु न सम्भवति। पत्रेऽस्मिन् वरविक्रयम्, बालविधवा, साक्षात्कारः, सोमप्रभम्, विडम्बना, एकचक्रम् इत्यादीनि कानिचित् रूपकाणि आलोचितानि कानिचित् प्रथमविभागतः कानिचित् द्वितीयविभागतः निर्वाचितानि किञ्च यानि सर्वाण्येव वस्तुदृष्ट्या वर्तमानसमाजस्थितौ सातिशयं प्रासङ्गिकतामवगाहन्ते।

     अत्र नाटकम् इति शब्दः आङ्गलभाषास्थित ‘drama’ इत्यस्य बङ्गभाषास्थनाटकम् इत्यस्य, संस्कृतभाषायाः ‘रूपकम्’ इत्यस्य च समर्थकः।

अनूपः

(लीलानाटकचक्रम्, व्याङ्गालोर, 1993) कर्णाटकस्य लीला राओ दयालु महोदयाकृतं दृश्यत्रयसमन्वितम् नाटकम्।

     नाटकेऽस्मिन् नायकः अनूपः वयसि युवा, कुष्ठरोगग्रस्तः सन् परिवारं परित्यजति। कुष्ठरोगिणां कृते यदारोग्यनिकेतनम् लोकावयात् बहिरेव वर्तते तदेवाश्रयति, नास्ति तस्य गत्यन्तरम्।

     अतः यद्यपि “कुष्ठरोगः न खलु संक्रामको व्याधिरेव अतः तस्मान्न भेत्तव्यम्”, “कुष्ठरोगाक्रान्ताः सर्वेष्वेव कर्मसु अधिकारिणः, न कथमपि ते परिवारात् समाजाद्वा वहिष्कारमर्हन्ति” इत्याकाराणि विज्ञापनानि पुनःपुनरेव वेतारदूरदर्शनसंवादपत्रादिप्रचारमाध्यमैः, प्रचारमापद्यन्ते तथापि यत् कुष्ठव्याधिग्रस्ताः समाजात् वहिष्कृता एव स्वपरिवारेषु अपि तेषाम् स्थानं नास्ति इत्येव नाटकेनानेन सुष्ठुतया प्रतिपादितम् इत्यतः वर्तमानसमाजस्थितौ अस्य प्रासङ्गिकता अनस्वीकार्या एव।

वरविक्रयम् – (नवरूपकम्, लक्ष्मी, 1992)

सोमप्रभम – (प्रेक्षणसप्तकम्, निउ दिल्ली, 1997)

कुर्यात् सदा मङ्गलम् – (नवमालती, निउदिल्ली 1997)

     वर्तमानसमाजे कन्यायाः पिता कथम् वरपक्षेण अधिकपणलाभार्थम् पीड्यते, कथं वा पणप्रथा अस्मद्समाजे दृढतया एव प्रोत्थिता तदेव चित्रितम् डॉ रामकृष्णमूर्त्तिमहोदयेन विरचिते ‘वरविक्रयम्’ इति नाटके, राधावल्लभत्रिपाठीमहोदयेन विरचिते ‘सोमप्रभम्’ इति नाटके , डॉ नोदनाथमिश्रमहोदयेन विरचिते ‘कुर्यात् सदा मङ्गलम्’ इति नाटके च। अन्यान्यपि सन्ति बहूनि नाटकानि यान्येव पणप्रथाया विरोधितामुद्घोषयन्ति। नाटकानीमानि विहार-आन्ध्रप्रदेश-मध्यप्रदेशादिविभिन्नप्रदेशेषु विरचितानि किन्तु तेषां वक्तव्यं न विभिन्नम्, परन्तु साधारणमेव। अन्यथा कथम् (Life term) शीर्षकः संवादः संवादपत्रे आगन्तुं शक्नोते? ‘वरविक्रयम्’ इति नाटके व्यङ्गात्मकः हास्यरसः (Satire) परिवेशितः अपरतः ‘सोमप्रभम्’ इत्यत्र, ‘कुर्यात् सदा मङ्गलम्’ इत्यत्र च गभीरः स्वरः ध्वनितः। नाटकेऽस्मिन् पञ्चमवर्षीयायाः सोमप्रभायाः साक्ष्यम् निपीडिताम् विमलाम् रक्षयति न खलु वास्तवसमाजे।

     कुर्यात् सदा मङ्गलम्

लोकनाथमिश्रमहोदयेन विरचितम् षड्दृश्यसमन्वितं करुणरसाश्रितं नाटकमिदम् यस्मिन्नेव नाटके विंशशताब्द्यामपि नारीणां करुणा दशा तावत् चित्रायिता। नायिका नीरजा खलु आविवाहात् पितुः भारसदृशी, विवाहात् परमेव श्वशुरकुले पणार्थम् नितरां निपीडिता न केवलं मानसिकं निपीडनम्, कायिकमपि च। अन्तिमे सा एव तपिस्विनी निहता।

     भवन्तस्तावत् कृपया त्रि-चतुर-पञ्चम-षष्ठसंख्याङ्कितेषु संवादेषु दृष्टिपातं कुर्वन्तु, सर्वत्र एव नीरजा विद्यमाना कुत्रचित् सा ‘याज्ञसेनी’, कुत्रचित् सुस्मिता, कुत्रचित् प्रतिमा वा परन्तु सर्वत्र निपीडिता, अन्तिमे निहता-, यौतकमेव सर्वत्र एकमेवाद्वितीयम् कारणम्। पणप्रथा सर्वत्र निन्दिता, यौतकं वर्जनीयम्, पणग्रहणं वर्जनीयम् इति सर्वत्रोच्चैरुद्घोषितम्, विधाइनद्वारा निषिद्धम्, तथापि इदमेव यौतकग्रहणं चलितम्, इदमेव चलति, इदन्तु चलिष्यति। एवम् उक्तञ्च “प्रथनं कन्यादानम्, पश्चात् कन्यादहनम्, पूर्वं वधूवरणम्, पश्चात् वधूदहनम्” इति।

पण्डितराजीयम् (नाट्यसप्तकम्, निउदिल्ली, 1992)

रमाकान्तशुक्लमहोदयेन विरचितम् अनवद्यम् रेडिओ-नाटकम्। पण्डितराजः जगन्नाथः ब्राह्मणः सन् शाह्जाहानस्य पालिताम् तनयाम् लवङ्गीम् सादरम् उपयेमे। समाजनेतृवृन्दः हिन्दु-मुसलमानयोः वैवाहिकं सम्बन्धं न कथमपि स्वीकरोति। अतः लवङ्गीं प्रति तेषां निर्यातनम् निपीडनम् कुत्सिताकारम् प्राप्नोति, लवङ्ग्याः मरणात् नास्ति उपायान्तरम् समाजनेतृणां शान्तये।

     पश्चिमवङ्गप्रदेशात् आगताः सर्वे विगत 1995 ख्रीस्टाब्दस्य संवादपत्रशिरोनामविषयम् अवश्यमेव स्मरिष्यन्ति, यत्र कलिकातास्थाया कस्याश्चित् महिलाध्यक्षायाः, अन्तिमसंस्कारः न कृतः यतः सा मुसलमानधर्मिणः कस्यचित् कविवरस्य सहधर्मिणी आसीत्। अतः नाट्यकृत् प्रतिष्ठापयति सहस्रवर्षात् प्रागेव यः कुसंस्कारः दृष्टः सोऽधुनापि सर्वथेव नापगतः नवीनतया समाजे प्रतिष्ठित एव। यथा तथा वा भवतु पश्चिमवङ्गसर्वेकारेभ्यः तदा प्रभृति नूतना विधिः निर्दिष्टा यत् उपरतस्य उपरताया वा दाहः भविष्यति उत समाधिः वा तदुपरि धर्मस्य अनुशासनं न चलिष्यति, मरणात् प्राक् येन यया वा यदभिलषितम् आसीत् तदेव भविष्यति।

साक्षात्कारः (नाट्यसप्तपदम्, निउदिल्ली, 1996)

अभिराजराजेन्द्रमिश्रविरचिते नाटकेऽस्मिन् सर्वत्र चयन (Selection) विषये यदेव प्रहसनम् प्रतिदिनम् वर्तमानसमाजे प्रचलति तदेव व्यङ्गात्मकहास्यरसेन सम्यगेव उद्घाटितम्।

     महाविद्यालयस्य कार्यालयलिपिकस्य चयनं भविष्यति। M.A. उत्तीर्णः हिन्द्याङ्गलटङ्कणाभिज्ञः योग्यतमः प्रत्याशी परन्तु लिपिकपदे तस्य चयनं न भवति, भवति तु कृपालोः यस्य पुटकात् पत्रमेव निःसृतम्, पत्रं तु लिखितम् राज्यस्य ऊच्चशिक्षामन्त्रीमहोदयेन। अतः अनन्तरामः उक्तः प्राचार्येण चयनसमितिमुख्येनयोग्यतातिशय्यात् स एव न मनोनीतः। “विशदीभूता तव योग्यता। त्वत्सदृशोच्चयोग्यतावन्तं जनं कथमहं लिपिकपदे नियोक्तुं शक्नोमि?”

विदुलापुत्रीयम् (मुम्बई, 1996)

एइच् भि. नागराजरावेण विरचितम् नाटकमिदं महाभारतस्य उद्योगपर्वस्थम् विदुलोपाख्यानमाश्रित्य विरचितम्।

     इदं दर्शयति यत् समाजस्य शत्रवः न सर्वत्र बहिरागताः, परन्तु व्याधि-दारिद्र्य-दुर्नीति-प्रभृतयः अस्माकम् शत्रवः, अतः एषाम् विनाशाय सर्वथैव प्रयत्नः कार्यः।

         एकचक्रम् (व्याङ्गालोर, 1990)

विदुषा एन् रङ्गनाथशर्मणाविरचितम् चतुरङ्कविशिष्टम् लघुरूपमिदं महाभारतस्य आदिपर्वस्थितम् भीम-वकासुरोपख्यानमाश्रित्य विरचितम्।

     वर्तमानसमाजे राजनैतिकनेतृणाम् नैतिक-अवक्षय-स्वार्थपरत्व-लोभादिकं प्रकटयतीदं रूपकम्। एकचक्रनगरस्य मन्दधीः दुर्बलश्च राजा, येनप्रतिश्रुतम् राक्षससकाशे – “प्रतिदिनम् आहारं वृषभादिमानुषञ्चेकं प्रेषयिष्यामि” इति। अथ राजा प्रजाः न रक्षति, परन्तु तेषां जीवनेन आत्मानं रक्षत्येव। एकत्र स्वार्थपरः राजा अन्यत्र ब्राह्मणपरिवारः यत्र सर्वं एव प्रथमम् वकासुरस्य भक्ष्यो भवितुमुद्यतः। अस्ति च कुन्ती या ‘सन्ति मे पञ्च पुत्राः, तेष्वन्यतमं त्वदर्थे प्रेषयिष्यामि’ इति वक्तुं शक्नोति। अतोऽत्र रूपके महाभारतोपाख्याने नूतनत्वमापन्नम् इदन्तु स्वार्थपरत्व-परार्थपरत्वयोः चरमसीमानं प्रदर्शयति।

     एतावत् पर्यन्तम् वस्तुदृष्ट्या नवीनत्वम् आलोचितम्। अधुना एतत् वक्तव्यम् यत् आधुनिकनाटकेषु संस्कृतभाषापि काञ्चिन्नवीनाकृतिमापन्ना यतः नूतनशब्दाः निर्मिताः, बाङ्ग्ला-ओडिया-हिन्दीप्रभृतिभाषाणां शब्दाः, अभिव्यक्तयः (Idioms) लोकोक्तयः अनायासेनैव प्रयुक्ताः, समकालिकभारतीयसाहित्यस्य वैदेशिकसाहित्यस्य प्रभावोऽपि अनस्वीकार्य एव।

     उदाहरणानि परिवेषितानि वोधसौकर्याय, सनातनी प्राकृतभाषा वर्जिता, बङ्गभाषा, महाराष्ट्रप्रादेशिकभाषा, वैदेशिकभाषा अपि प्रयुक्ता, ‘जननी’ नाटकस्य प्रस्तावना उदाहरणरूपेण प्रदत्ता।

     अधुना प्रतीकनाट्यानि नभोनाट्यानि गीतिनाट्यानि रचितानि, नाटकानि प्रायशः एकाङ्कानि, कुत्रापि पात्रादयः न केवलम् मञ्चस्थाः परन्तु दर्शकवृन्दात् एव समागताः। नाटकेषु बेकटब्रष्ट प्रभृतीनां स्मरणं जायते। (उदाहरणम्) कुत्रचिद्वा पात्राणि श्रेणीविशेषस्य प्रतिनिधित्वम् कुर्वन्ति, अतः स्वरव्यञ्जनसंहत्या एव परिचिताः। यथा कः खः गः घः इति, (अथ किम्) कुत्रचित् प्रेता एव पात्राणि, (चिताग्निः साक्षिरूपो वर्तते)। कुत्रचित् रोगः एव प्रधानचरित्रम्, कुत्रचित् नान्दी अस्ति कुत्रचिद् वा नास्ति। किन्तु प्रचलितप्रथा नानुसृता, एवम् भरतवाक्येष्वपि प्रचलिता प्रथा सर्वथा न अनुसृता, संगीतम् प्रवर्तितम्, कुत्रचित् श्रमिकगानम्, गजलगानम्, कीर्त्तनगानम् वा प्रवर्त्तितम्। (Flash-Back) प्रथा अनुसृता नेपथ्यध्वनिः (Back-ground music) अपि सुप्रयुक्तः।

     अतः विगतवर्षदशकस्य संस्कृतनाटकेषु तावत् प्राचीननवीनयोः अपरूपम् सहावस्थानम्, ऐतिह्याविष्कारयोः अनवद्यम् सम्मेलनं दृश्यते एव इत्यलम्।**

** উক্ত প্রবন্ধটি সাগরিকা (৩৫/৩-৪) সংখ্যায় প্রকাশিত, পৃ. ৩৩।